Tuesday, October 11, 2022

TRANSLATION OF 'संगरोध' INTO SANSKRIT-RAJEEV

 हर्षात्प्रफुल्लेषु मनस्सु कूजः

गृहस्य कोणे ललितः स गुञ्जः

त्वं मामकीनेति विनिःश्वसेन

तवाहमस्मीति रवः श्रुतो वै ।


मुद्रावघट्टेन शब्दायमाना

स्थालीव वृष्टिः सवेगा पतन्ती

तातप्यमानेषु वक्षःस्थलेषु

शीताम्बुराशिं प्रवर्षमाणा ।


धीरः समीरः वहतीह कस्मात्

का सृष्टिरेषा नितरां मनोज्ञा

कः सृष्टिकर्ता जगतो विधाता

को रक्षति त्वां वद मां च मित्र ।


वातायनस्यास्य पुरातनेन

गृहस्य वीथेरनुबन्धनेन


नग्नैर्पदैः सञ्चलनेन तत्र

आयाति पूर्वा स्मृतिरन्तरङ्गे ।


सा नारकीया यमलोकवाणी

घोरैर्निनादैर्जनमाह्वयन्ती

आगच्छ वत्सेति ददामि तुभ्यं

निद्रां चिरामाश्रयमद्वेतीयम् ।


मायाप्रपञ्चे भवचक्रव्यूहे

भोगानुभोगे सुखदुःखलोके

बुद्धिर्मनो मे सततं निबद्धे

सत्यं सुदूरं नहि दृश्यते तत् ।

---------

अन्वयः - 

त्वं मामकीना इति, तव अहम् अस्मि इति,  विनिःश्वसेन रवः शृतः, हर्षात् प्रफुल्लेषु मनस्सु कूजः श्रुतः, गृहस्य कोणे ललितः सः गुञ्जः श्रुतः ।


मुद्रावघट्टेन शब्दायमाना स्थाली इव, वृष्टिः सवेगा पतन्ती (अस्ति), तातप्यमानेषु वक्षःस्थलेषु शीताम्बुराशिं प्रवर्षमाणा (अस्ति)


वद मित्र ! धीरः समीरः वहति इह कस्मात्, एषा नितरां मनोज्ञा सृष्टिः का, जगतः विधाता सृष्टिकर्ता कः, कः रक्षति त्वां मां च ।


अस्य गृहस्य वातयनस्य वीथेः पुरातनेन अनुबन्धनेन, तत्र नग्नैः पदैः सञ्चलनेन, अन्तरङ्गे पूर्वा स्मृतिः आयाति ।


सा नारकीया यमलोकवाणी घोरैः निनादैः जनम् आह्वयन्ती - “आगच्छ वत्स ! तुभ्यं ददामि चिरां निद्राम् अद्वितीयम् आश्रयम्” इति ।


मम बुद्धिः मनः मायाप्रपञ्चे, भवचक्रव्यूहे, भोगानुभोगे, सुखदुःखलोके सततं निबद्धे । तत् सुदूरं सत्यं नहि दृश्यते ।


No comments:

Post a Comment