हर्षात्प्रफुल्लेषु मनस्सु कूजः
गृहस्य कोणे ललितः स गुञ्जः
त्वं मामकीनेति विनिःश्वसेन
तवाहमस्मीति रवः श्रुतो वै ।
मुद्रावघट्टेन शब्दायमाना
स्थालीव वृष्टिः सवेगा पतन्ती
तातप्यमानेषु वक्षःस्थलेषु
शीताम्बुराशिं प्रवर्षमाणा ।
धीरः समीरः वहतीह कस्मात्
का सृष्टिरेषा नितरां मनोज्ञा
कः सृष्टिकर्ता जगतो विधाता
को रक्षति त्वां वद मां च मित्र ।
वातायनस्यास्य पुरातनेन
गृहस्य वीथेरनुबन्धनेन
नग्नैर्पदैः सञ्चलनेन तत्र
आयाति पूर्वा स्मृतिरन्तरङ्गे ।
सा नारकीया यमलोकवाणी
घोरैर्निनादैर्जनमाह्वयन्ती
आगच्छ वत्सेति ददामि तुभ्यं
निद्रां चिरामाश्रयमद्वेतीयम् ।
मायाप्रपञ्चे भवचक्रव्यूहे
भोगानुभोगे सुखदुःखलोके
बुद्धिर्मनो मे सततं निबद्धे
सत्यं सुदूरं नहि दृश्यते तत् ।
---------
अन्वयः -
त्वं मामकीना इति, तव अहम् अस्मि इति, विनिःश्वसेन रवः शृतः, हर्षात् प्रफुल्लेषु मनस्सु कूजः श्रुतः, गृहस्य कोणे ललितः सः गुञ्जः श्रुतः ।
मुद्रावघट्टेन शब्दायमाना स्थाली इव, वृष्टिः सवेगा पतन्ती (अस्ति), तातप्यमानेषु वक्षःस्थलेषु शीताम्बुराशिं प्रवर्षमाणा (अस्ति)
वद मित्र ! धीरः समीरः वहति इह कस्मात्, एषा नितरां मनोज्ञा सृष्टिः का, जगतः विधाता सृष्टिकर्ता कः, कः रक्षति त्वां मां च ।
अस्य गृहस्य वातयनस्य वीथेः पुरातनेन अनुबन्धनेन, तत्र नग्नैः पदैः सञ्चलनेन, अन्तरङ्गे पूर्वा स्मृतिः आयाति ।
सा नारकीया यमलोकवाणी घोरैः निनादैः जनम् आह्वयन्ती - “आगच्छ वत्स ! तुभ्यं ददामि चिरां निद्राम् अद्वितीयम् आश्रयम्” इति ।
मम बुद्धिः मनः मायाप्रपञ्चे, भवचक्रव्यूहे, भोगानुभोगे, सुखदुःखलोके सततं निबद्धे । तत् सुदूरं सत्यं नहि दृश्यते ।
No comments:
Post a Comment